Proofing

This page has not been fully proofread.

६२
 
श्रीमद्भगवद्गीताभाष्ये
 
यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि
उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रि-
यार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता
इत्युक्तार्थं वाक्यम् ॥
 
तत्र विषयाननाहरत: आतुरस्यापि इन्द्रियाणि कूर्माङ्गा-
नीव संह्रियन्ते न तु तद्विषयो रागः स कथं संहियते इति
उच्यते-
 
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जे रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
 

 
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि
इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्ठे तपसि
स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवत: रसवर्ज
रसो रांगो विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे
प्रसिद्धः, स्वरसेन प्रवृत्त: रसिकः रसज्ञः, इत्यादिदर्शनात् ।
सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थ-
तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ' अहमेव तत्' इति वर्तमानस्य
निवर्तते निर्बीजं विषयविज्ञानं संपद्यते इत्यर्थः । न असति
सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्दर्शनात्मिकायाः
प्रज्ञायाः स्थैर्ये कर्तव्यमित्यभिप्रायः ॥