2026-05-04 01:46:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६०
श्रीमद्भगवद्गीताभाप्ये
</ignore>
<p>नानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच -
---</p>
<verse>श्रीभगवानुवाच-
--
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
<fix> ५५ ॥</fix></verse>
<p>प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले
सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान्
मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिका-
रणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्त-
स्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते--- आत्मन्येव प्रत्यगात्म-
स्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमा-
र्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थि-
ता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञ:
ञः
विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी
आत्माराम आत्मक्रीड:डः स्थितप्रज्ञ इत्यर्थः ॥
</p>
<p>किंच--
-</p>
<verse>दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
</verse>
<p merge-next="true">दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं
</p>
</page>
<ignore>६०
<p>नानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच
<verse>श्रीभगवानुवाच-
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
<p>प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले
सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान्
मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिका-
रणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्त-
स्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते--- आत्मन्येव प्रत्यगात्म-
स्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमा-
र्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थि-
ता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्
विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी
आत्माराम आत्मक्री