Proofing

This page has not been fully proofread.

६०
 
श्रीमद्भगवद्गीताभाप्ये
 
नानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच -
 
श्रीभगवानुवाच-
 
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
 
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले
सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान्
मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिका-
रणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्त-
स्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते- आत्मन्येव प्रत्यगात्म-
स्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमा-
र्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थि-
ता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञ:
विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी
आत्माराम आत्मक्रीड: स्थितप्रज्ञ इत्यर्थः ॥
 
किंच--
 
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
 
दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं