2026-05-04 01:40:37 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>द्वितीयोऽध्यायः ।
५९
</ignore>
<p>इत्येतत् । बुद्धिः अन्तःकरणम् । तदा तस्मिन्काले योगम्
अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥
</p>
<p>प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य
लक्षणबुभुत्सया-
--</p>
<verse>अर्जुन उवाच -
--
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥
<fix> ५४ ॥</fix></verse>
<p>स्थिता प्रतिष्ठिता' 'अहमस्मि परं ब्रह्म'' इति प्रज्ञा यस्य
सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं
कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे के-
शव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किम्
आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थः ।
स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छते ॥
</p>
<p merge-next="true">यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तेः,
यश्च कर्मयोगेन तयोः''प्रजहाति'' इत्यारभ्य आ अध्याय-
परिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते । सर्वत्रैव
हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि
उपदिश्यन्ते, यत्नसाध्यत्वातत् । यानि यत्नसाध्यानि साध-
</p>
</page>
<ignore>द्वितीयोऽध्यायः ।
<p>इत्येतत् । बुद्धिः अन्तःकरणम् । तदा तस्मिन्काले योगम्
अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥
<p>प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य
लक्षणबुभुत्सया-
<verse>अर्जुन उवाच -
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥
<p>स्थिता प्रतिष्ठिता
सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं
कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे के-
शव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किम्
आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थः ।
स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छते ॥
<p merge-next="true">यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तेः,
यश्च कर्मयोगेन तयोः
परिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते । सर्वत्रैव
हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि
उपदिश्यन्ते, यत्नसाध्यत्वा
</page>