Proofing

This page has not been fully proofread.

-द्वितीयोऽध्यायः ।
 
५७
 
स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः
ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः । तद्धि कौशलं
यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्धया स्वभावात्
निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥
 
यस्मात्-
 
कर्मजं वुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥
 
कर्मजं फलं त्यक्त्वा इति व्यवहितेन संबन्धः । इष्टानि-
ष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्व-
बुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनी-
षिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ता: जन्मैव बन्धः
जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् वि-
निर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अना-
मयं सर्वोपद्रवरहितमित्यर्थः । अथवा 'बुद्धियोगाद्धनंजय
इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतः संप्लुतोदकस्थानीया
कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृ-
तप्रहाणादिहेतुत्वश्रवणात् ॥
 
योगानुष्ठानजनितस स्वशुद्धिजा बुद्धिः कदा प्राप्स्यते
इत्युच्यते-