Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
५६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
दूरेण ह्यवरं कर्म वुडिबुद्धियोगाद्धनंजय ।
वु

बु
द्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
 
</verse>
<p>
दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं नि-

कृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियु-

क्तात् कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनंजय, यत एवं

ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ

शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, पर-

मार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणा:णाः कृप-

णाः दीना:नाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, '<quote>&apos;यो वा एत-

दक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति स कृपण:'णः&apos;</quote> इति श्रुतेः ॥
 
</p>
<p>
समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति

तच्छृणु-
 
--</p>
<verse>
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥
 
<fix> ५० ॥</fix></verse>
<p>
बुद्धियुक्तः कर्मसमत्वविषयया बुद्धधाध्या युक्तः बुद्धियुक्तः सः

जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते

पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्व-

बुद्धियोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम्,
 
</p>
</page>