Proofing

This page has not been fully proofread.

५६
 
श्रीमद्भगवद्गीताभाष्ये
 
दूरेण ह्यवरं कर्म वुडियोगाडनंजय ।
वुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥
 
दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं नि-
कृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियु-
क्तात् कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनंजय, यत एवं
ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ
शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, पर-
मार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणा: कृप-
णाः दीना: फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, 'यो वा एत-
दक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति स कृपण:' इति श्रुतेः ॥
 
समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति
तच्छृणु-
 
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥
 
बुद्धियुक्तः कर्मसमत्वविषयया बुद्धधा युक्तः बुद्धियुक्तः सः
जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते
पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्व-
बुद्धियोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम्,