Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>५४ श्रीमद्भगवद्गीताभाष्ये</ignore>
<p>एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्म-
फलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजा-
नतः यः अर्थः यत् विज्ञानफलं सर्वतःसंप्लुतोदकस्थानीयं
तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः । &apos;यथा
कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति
यत् किंचित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद&apos;
इति श्रुतेः । &apos;सर्वं कर्माखिलम्&apos; इति च वक्ष्यति । तस्मात्
प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थ-
स्थानीयमपि कर्म कर्तव्यम् ॥</p>
<p>तव च---</p>
<verse>कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥</verse>
<p merge-next="true">कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव । तत्र च
कर्म कुर्वतः मा फलेषु अधिकारः अस्तु , कर्मफलतृष्णा मा
भूत् कदाचन कस्यांचिदप्यवस्थायामित्यर्थः । यदा कर्मफले
तृष्णा स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा
कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि
प्रवर्तते तदा कर्म<error></error><fix>फ</fix>लस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं</p>
</page>