Proofing

This page has not been fully proofread.

५४
 
श्रीमद्भगवद्गीताभाष्ये
 
एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्म-
फलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजा-
नतः यः अर्थः यत् विज्ञानफलं सर्वतः संप्लुतोदकस्थानीयं
तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः । 'यथा
कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति
यत् किंचित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
इति श्रुतेः । 'सर्वं कर्माखिलम्' इति च वक्ष्यति । तस्मात्
प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थ-.
स्थानीयमपि कर्म कर्तव्यम् ॥
 
तव च-
 
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
 
कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तत्र । तत्र च
कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा
भूत् कदाचन कस्यचिदप्यवस्थायामित्यर्थः । यदा कर्मफले
तृष्णा स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा
कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि
प्रवर्तते तदा कर्मपलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं