2026-05-03 22:01:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>द्वितीयोऽध्यायः ।
५३
</ignore>
<p>त्रैगुण्यविषया:याः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः
येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन,
निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेत्तू सप्रतिपक्षौ
पदार्थोंथौ द्वन्द्वशब्दवाच्यौ, ततः निर्गतः निर्द्वन्द्वो भव ।
नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षेम:
मः
अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-
क्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो
भव । आत्मवान् अप्रमत्तत्रश्च भव । एष तव उपदेश:शः स्वधर्म-
मनुतिष्ठतः ॥
</p>
<p>सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि
तानि नापेक्ष्यन्ते चेत्, किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते
इत्युच्यते ; शृणु—
</p>
<verse>यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥
</verse>
<p merge-next="true">यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके
यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं
स सर्वः अर्थः सर्वतःसंप्लुतोदकेऽपि यः अर्थः तावानेव
संपद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण
</p>
</page>
<ignore>द्वितीयोऽध्यायः ।
<p>त्रैगुण्यविष
येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन,
निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहे
पदार्
नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षे
अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-
क्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो
भव । आत्मवान् अप्रमत्त