Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
५३
 
त्रैगुण्यविषया: त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः
येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन,
निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेत् सप्रतिपक्षौ
पदार्थों द्वन्द्वशब्दवाच्यौ, ततः निर्गतः निर्द्वन्द्वो भव ।
नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षेम:
अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-
क्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो
भव । आत्मवान् अप्रमत्तत्र भव । एष तव उपदेश: स्वधर्म-
मनुतिष्ठतः ॥
 
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि
तानि नापेक्ष्यन्ते चेत्, किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते
इत्युच्यते ; शृणु—
 
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥
 
यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके
यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं
स सर्वः अर्थः सर्वतःसंप्लुतोदकेऽपि यः अर्थः तावानेव
संपद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण