2026-05-03 21:58:51 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५२
श्रीमद्भगवद्गीताभाप्ये
</ignore>
<p>वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च
ऐश्वर्ययं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति
साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः
मूढाः संसारे परिवर्तन्ते इत्यभिप्राय: ॥
</p>
<p>तेषां च-
--</p>
<verse>भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥
<fix> ४४ ॥</fix></verse>
<p>भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः ऐश्वर्यं च इति भोगे-
श्वर्ययोरेव प्रणयवतां तदात्मभूतानाम् । तया क्रियाविशेष-
बहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां
व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते
अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं
बुद्धिः तस्मिन् समाधौ न विधीयते न भवति इत्यर्थः ॥
"
</p>
<p>ये एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत् फलं
तदाह-
--</p>
<verse>त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥
<fix> ४५ ॥</fix></verse>
</page>
<ignore>५२
<p>वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च
ऐश्वर्