Proofing

This page has not been fully proofread.

५२
 
श्रीमद्भगवद्गीताभाप्ये
 
वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च
ऐश्वर्य च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति
साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः
मूढाः संसारे परिवर्तन्ते इत्यभिप्राय: ॥
 
तेषां च-
 
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥
 
भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः ऐश्वर्यं च इति भोगे-
श्वर्ययोरेव प्रणयवतां तदात्मभूतानाम् । तया क्रियाविशेष-
बहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां
व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते
अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं
बुद्धिः तस्मिन् समाधौ न विधीयते न भवति इत्यर्थः ॥
 
"
 
ये एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत् फलं
 
तदाह-
 
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥