Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
५१</ignore>
<p>
येषां व्यवसायात्मिका बुद्धिर्नास्ति ते—
 
</p>
<verse>
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥
 
</verse>
<ignore>
५१
 
</ignore>
<p>
याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभ-

मानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के ?

अविपश्चितः अमेधसः अविवेकिन इत्यर्थः । वेदवादरताः

बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, न

अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं

वादिनः वदनशीलाः ॥
 

ते च-
 
</p>
<verse>
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥
 
</verse>
<p merge-next="true">
कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः

स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्प्रधानाः । जन्म-

कर्मफलप्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्म-

फलं तत् प्रददातीति जन्मकर्मफलप्रदा, तां वाचम् । प्रवदन्ति

इत्यनुषज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रिया-

विशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया
 
</p>
</page>