2026-05-03 04:19:35 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
४९
इति शास्त्रविषयविभागप्रदर्शनाय । इह हि प्रदर्शिते पुनः
शास्त्रविषयविभागे उपरिष्टात् 'ज्ञानयोगेन सांख्यानां कर्म-
योगेन योगिनाम्' इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्ति-
ष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत
आह-
एषा तेऽभिहिता सांख्ये वुद्धियोंगे त्विमां शृणु ।
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥
।
एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थवस्तुवि-
वेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनि-
वृत्तिकारणम् । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वमहा-
णपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे
च इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं
स्तौति प्ररोचनार्थं — बुद्धधा यया योगविषयया युक्तः हे
पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं
प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्राय: ॥
किंच अन्यत् —
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥
S. B. 4