Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
तस्मादुत्तिष्ठ कौन्तेय
 

युद्धाय कृतनिश्चयः ॥ ३७ ॥
 
</verse>
<p>
हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि ।

जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि

तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय

युद्धाय कृतनिश्चयः '&apos;जेष्यामि शत्रून्, मरिष्यामि वा'&apos; इति

निश्चयं कृत्वेत्यर्थः ॥
 
</p>
<p>
तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु-
--</p>
<verse>
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
 
</verse>
<p>
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् ।

तथा लाभालाभौ जयाजयौंयौ च समौ कृत्वा ततो युद्धाय

युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि ।

इत्येष उपदेशः प्रासङ्गिकः ॥
 
</p>
<p merge-next="true">
शोकमोहापनयनाय लौकिको न्याय: 'यः &apos;स्वधर्ममपि चावे-

क्ष्य'&apos; इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शन-

मिह प्रकृतम् । तञ्च्चोक्तमुपसंहिह्रियते— '&apos;एषा तेऽभिहिता
 
&apos;</p>
</page>