2026-05-03 18:34:07 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४८
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>तस्मादुत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः ॥ ३७ ॥
</verse>
<p>हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि ।
जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि
तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः''जेष्यामि शत्रूनन्, मरिष्यामि वा'' इति
निश्चयं कृत्वेत्यर्थः ॥
</p>
<p>तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु-
--</p>
<verse>सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
</verse>
<p>सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् ।
तथा लाभालाभौ जयाजयौंयौ च समौ कृत्वा ततो युद्धाय
युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि ।
इत्येष उपदेशः प्रासङ्गिकः ॥
</p>
<p merge-next="true">शोकमोहापनयनाय लौकिको न्याय: 'यः 'स्वधर्ममपि चावे-
क्ष्य'' इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शन-
मिह प्रकृतम् । तञ्च्चोक्तमुपसंहिह्रियते— ''एषा तेऽभिहिता
'</p>
</page>
<ignore>४८
<verse>तस्मादुत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः ॥ ३७ ॥
<p>हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि ।
जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि
तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः
निश्चयं कृत्वेत्यर्थः ॥
<p>तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु-
<verse>सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
<p>सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् ।
तथा लाभालाभौ जयाज
युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि ।
इत्येष उपदेशः प्रासङ्गिकः ॥
<p merge-next="true">शोकमोहापनयनाय लौकिको न्या
क्ष्य
मिह प्रकृतम् । त
</page>