2026-05-03 04:19:35 by ambuda-bot
This page has not been fully proofread.
४८
श्रीमद्भगवद्गीताभाष्ये
तस्मादुत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः ॥ ३७ ॥
हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि ।
जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि
तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः 'जेष्यामि शत्रून, मरिष्यामि वा' इति
निश्चयं कृत्वेत्यर्थः ॥
तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु-
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् ।
तथा लाभालाभौ जयाजयौं च समौ कृत्वा ततो युद्धाय
युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि ।
इत्येष उपदेशः प्रासङ्गिकः ॥
शोकमोहापनयनाय लौकिको न्याय: 'स्वधर्ममपि चावे-
क्ष्य' इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शन-
मिह प्रकृतम् । तञ्चोक्तमुपसंहियते— 'एषा तेऽभिहिता