Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
४७
 
</ignore>
<verse>
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥
 
<fix> ३५ ॥</fix></verse>
<verse>
भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते

चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः ।

येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः

इत्येवं मतः बहुमतः भूत्वा पुन:नः यास्यसि लाघवं लघुभावम् ॥
</verse>
<p>
किंच-
 
--</p>
<verse>
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
 
<fix> ३६ ॥</fix></verse>
<p>
अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान्

वदिष्यन्ति तव अहिताः शत्रवः निन्दन्त:तः कुत्सयन्तः तव

त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तम् । ततः तस्मात्

निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम्, ततः कष्टतरं दुःखं

नास्तीत्यर्थः ॥
 
</p>
<p>
युद्धे पुनः क्रियमाणे कर्णादिभिः—
 
</p>
<verse merge-next="true">
हतो वा प्राप्स्यसि स्वर्
 
गं
जित्वा वा भोक्ष्यसे महीम् ।
 
</verse>
</page>