2026-05-03 04:19:35 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
४७
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥
भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते
चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः ।
येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः
इत्येवं मतः बहुमतः भूत्वा पुन: यास्यसि लाघवं लघुभावम् ॥
किंच-
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥
अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान्
वदिष्यन्ति तव अहिताः शत्रवः निन्दन्त: कुत्सयन्तः तव
त्वदीयं सामर्थ्य निवातकवचादियुद्धनिमित्तम् । ततः तस्मात्
निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम्, ततः कष्टतरं दुःखं
नास्तीत्यर्थः ॥
युद्धे पुनः क्रियमाणे कर्णादिभिः—
हतो वा प्राप्स्यसि स्वर्ग
जित्वा वा भोक्ष्यसे महीम् ।