2026-05-03 18:29:42 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४६
श्रीमद्भगवद्गीताभाष्ये
</ignore>

यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम्
अपावृतम् उद्घाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे
पार्थ, किं न सुखिनः ते ?

एवं कर्तव्यताप्राप्तमपि—

अथ चेत्त्वमिमं धर्म्ययं संग्रामं न करिष्यसि ।
ततः स्वधर्म कीर्तिमं कीर्तिं च हित्वा पापमवाप्स्यसि ।
॥<fix> ३३ ॥</fix>

अथ चेत् त्वम् इमं धर्म्येयं धर्मादनपेतं विहितं संग्रामं युद्धं
न करिष्यसि चेत्, ततः तदकरणात् स्वधर्म कीर्तिमं कीर्तिं च महा-
देवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥

न केवलं स्वधर्मकीर्तिपरित्यागः-
अकीर्ति--

<verse>अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
</verse>

अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्य-
यां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः संभा-
वितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च
अकीर्तेः वरं मरणमित्यर्थः ॥

किंच-

</page>
<ignore>४६

यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम्
अपावृतम् उद्घाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे
पार्थ, किं न सुखिनः ते ?

एवं कर्तव्यताप्राप्तमपि—

अथ चेत्त्वमिमं धर्म्
ततः स्वधर्

अथ चेत् त्वम् इमं धर्म्
न करिष्यसि चेत्, ततः तदकरणात् स्वधर्
देवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥

न केवलं स्वधर्मकीर्तिपरित्यागः-
अकीर्ति