2026-05-03 04:19:34 by ambuda-bot
This page has not been fully proofread.
४६
श्रीमद्भगवद्गीताभाष्ये
यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम्
अपावृतम् उद्घाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे
पार्थ, किं न सुखिनः ते ?
एवं कर्तव्यताप्राप्तमपि—
अथ चेत्वमिमं धर्म्य संग्रामं न करिष्यसि ।
ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ।
अथ चेत् त्वम् इमं धर्म्ये धर्मादनपेतं विहितं संग्रामं युद्धं
न करिष्यसि चेत्, ततः तदकरणात् स्वधर्म कीर्ति च महा-
देवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥
न केवलं स्वधर्मकीर्तिपरित्यागः-
अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्य-
यां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः संभा-
वितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च
अकीर्तेः वरं मरणमित्यर्थः ॥
किंच-