Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
४५
 
</ignore>
<p>
यवत्वान्नित्यत्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्व-

गतत्वात्स्थावरादिषु स्थितोऽपि सर्वस् प्राणिजातस्य देहे

वध्यमानेऽपि अयं देही न वध्यः यस्मात् तस्मात् भीष्मा-

दीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि ॥
 

इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न संभव-

तीत्युक्तम् । न केवलं परमार्थतत्त्वापेक्षायामेव । किं तु—
</p>
<verse>
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याडिद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥
 
<fix> ३१ ॥</fix></verse>
<p>
स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं

न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविका-

द्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायः । तच्च युद्धं पृथिवीज-

यद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम् ।

तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते

हि यस्मात् ॥
 
</p>
<p>
कुतश्च तत् युद्धं कर्तव्यमिति, उच्यते—
 
</p>
<verse>
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥
 
<fix> ३२ ॥</fix></verse>
</page>