Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४४
 
श्रीमद्भगवद्गीताभाष्
 
ये</ignore>
<p>
दुर्विज्ञेयोऽयं प्रकृत आत्मा ; किं त्वामेवैकमुपालभे साधा-

रणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह-
 
</p>
<verse>
आश्चर्यवत्पश्यति कश्चिदेन-

माश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति
 

श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥
 
</verse>
<p>
आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्य-

मानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिव एनम् आत्मानं

पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः ।

आश्चर्यवच्च एनमन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एन-

मात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति

स आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु

कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्राय:यः
</p>
<p>
अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते-
 
--</p>
<verse>
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥
 
</verse>
<p merge-next="true">
देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरव-
 
</p>
</page>