Proofing

This page has been fully proofread once and needs a second look.

I
 

 
<page>
<p text="C">
द्रव्यं विभजते । तत्रेति । तत्र द्रव्यादिमध्ये द्रव्याणि नवैवे-

त्यन्वयः ॥ कानि तानीत्यत आह । पृथिवीत्यादीनि ॥ ननु तमसो

दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणि ॥ तथाहि ।
 
</p>
<verse text="C">
तमः खलु चलं नीलं परापरविभागवत् ।

प्रसिद्धद्रव्यवैधर्म्यान्नवेभ्यो भेत्तुमर्हति ॥
 
</verse>
<p text="C">
नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रिया-

धारतया च द्रव्यत्वं तावत्सिद्धम् । तत्र तमसो नाकाशादिपञ्च के-

न्तर्भावः । रूपवच्चात्त्वात् । अत एव न वायौ । सदागतिमच्चात्त्वाभा-

वाच्च । नापि तेजसि । भास्वररूपाभावादुष्णस्पर्शाभावाच्च । नापि

जले । शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि ष्टपृथिव्याम् । ग-

न्धवच्त्त्वाभावात्स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेन्न ।

तमसस्तेजोभावरूपवत्त्वात् ॥ तथाहि । तमो हि न रूपि द्रव्यम् ।

आलोकासह कृतचक्षुर्ग्राह्यत्वात् । आलोकाभाववत् । रूपिचाक्षुषप्र-

मायामालोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजः सामान्या-

भावस्तमः । तत्र नीलं तमश्लतीति प्रत्ययो भ्रमः । अतो नव-

द्रव्याणीति सिद्धम् ॥ द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्य-

लक्षणम् ॥ लक्ष्यैकदेशावृत्तित्वमव्याप्तिः ॥ यथा गोः कपिलत्वम् ।

अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावर्त-

नमसम्भवः । यथा गोरेकशफत्वम् ॥ एतद्दूपणत्रयरहितो धर्मो

लक्षणम् । यथा गोः सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्यु-

च्यते ॥ लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तक-

स्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिवारणाय तद्भि-

न्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तु न

देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् ॥ ननु गुणवच्त्त्वं न द्रव्य-

सामान्यलक्षणम् ॥ आद्यक्षणे उत्पन्नविनष्टद्रव्ये चाव्याप्तेरिति चेन्न ।

गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् ॥ नन्वे-

वमप्येकं रूपं रसात्पृथगिति व्यवहारात् । रूपादावतिव्या-

प्तिरिति चेन्न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे

गुणानङ्गीकरणात् ॥
 
</p>
</page>