2026-04-25 02:58:00 by ambuda-bot
This page has not been fully proofread.
I
३
द्रव्यं विभजते । तत्रेति । तत्र द्रव्यादिमध्ये द्रव्याणि नवैवे-
त्यन्वयः ॥ कानि तानीत्यत आह । पृथिवीत्यादीनि ॥ ननु तमसो
दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणि ॥ तथाहि ।
तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यान्नवेभ्यो भेत्तुमर्हति ॥
नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रिया-
धारतया च द्रव्यत्वं तावत्सिद्धम् । तत्र तमसो नाकाशादिपञ्च के-
न्तर्भावः । रूपवच्चात् । अत एव न वायौ । सदागतिमच्चाभा-
वाच्च । नापि तेजसि । भास्वररूपाभावादुष्णस्पर्शाभावाच्च । नापि
जले । शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि ष्टथिव्याम् । ग-
न्धवच्वाभावात्स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेन्न ।
तमसस्तेजोभावरूपवत्त्वात् ॥ तथाहि । तमो हि न रूपि द्रव्यम् ।
आलोकासह कृतचक्षुर्ग्राह्यत्वात् । आलोकाभाववत् । रूपिचाक्षुषप्र-
मायामालोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजः सामान्या-
भावस्तमः । तत्र नीलं तमश्वलतीति प्रत्ययो भ्रमः । अतो नव-
द्रव्याणीति सिद्धम् ॥ द्रव्यत्वजातिमत्वं गुणवत्त्वं वा द्रव्यसामान्य-
लक्षणम् ॥ लक्ष्यैकदेशावृत्तित्वमव्याप्तिः ॥ यथा गोः कपिलत्वम् ।
अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावर्त-
नमसम्भवः । यथा गोरेकशफत्वम् ॥ एतद्दूपणत्रयरहितो धर्मो
लक्षणम् । यथा गोः सास्नादिमत्वम् । स एवासाधारणधर्म इत्यु-
च्यते ॥ लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तक-
स्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिवारणाय तद्भि-
न्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तु न
देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् ॥ ननु गुणवच्वं न द्रव्य-
सामान्यलक्षणम् ॥ आद्यक्षणे उत्पन्नविनष्टद्रव्ये चाव्याप्तेरिति चेन्न ।
गुणसमानाधिकरणसत्ताभिन्नजातिमत्वस्य विवक्षितत्वात् ॥ नन्वे-
वमप्येकं रूपं रसात्पृथगिति व्यवहारात् । रूपादावतिव्या-
• प्तिरिति चेन्न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे
गुणानङ्गीकरणात् ॥