Proofing

This page has been fully proofread once and needs a second look.

<page>

स्पष्टार्थम् । न कुर्यान्निष्फलं कर्मेति जलताडनादेरपि निषिद्धत्वादि-
ति ॥ त

ति ॥ तर्क्य
न्ते प्रतिपाद्यन्त इति तर्का द्रव्यादिसप्तपदार्थास्तेषां सङ्ग्रहः

संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः ॥ कस्मै प्रयोजनायेत्यत

आह । सुखबोधायेति । सुखेनानायासेन बोधः पदार्थज्ञानं तस्मा

इत्यर्थः ॥ ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वग्रन्थः क्रियत

इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्वाबालानां बोधो न

भवतीत्यर्थः । ग्रहणधारणपटुर्बालः । न तु स्तनन्धयः ॥ किं कृत्वा

क्रियत इत्यत आह । निधायेति । विश्वेशं जगन्नियन्तारं शिवं दृहृदि

निधाय नितरां ध्यात्वेत्यर्थः ॥ गुरूणां विद्यागुरूणां वन्दनं नम-

स्कारं कृत्वेत्यर्थः ॥

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः स-

प्
तपदार्थाः ॥ १ ॥

पदार्थान्विभजते । द्रव्येति । पदस्यार्थः पदार्थ इति व्युत्पच्या-
त्त्या-
भिधेयत्वं पदार्थसामान्यलक्षणं लभ्यते ॥ नन्वत्र विभागादेव सप्तत्वे

सिद्धे सप्तग्रहणं व्यर्थमिति चेन्न । न्यूनाधिकसंख्याव्यवच्छेदार्थत्वात् ॥

नन्वतिरिक्तः पदार्थः प्रमितो न वा । नाद्यः । प्रमितस्य निषेधायो-

गात् । नान्त्यः । प्रतियोगिप्रमितितिं विना निषेधानुपपत्तेरिति चेन्न । प-

दार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थत्वात् ॥ ननु

सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । एवं च सप्तभिन्न-

स्याप्रसिद्धत्वात्सप्तान्यतमत्वं कथमिति चेन्न । द्रव्यादि सप्तान्यत-

मत्वं द्रव्यादिभेदसप्तकाभाववच्त्त्वमित्युक्तत्वात् ॥ एवमग्रेपि द्रष्ट-

व्यम् ॥

तत्र द्रव्याणि ष्टपृथिव्यप्तेजोवाय्वाकाशकालदि-

गात्ममनांसि नवैव ॥ २ ॥

1. 'There are seven Categories; ---Substance, Quality, Action,

Genus, Difference, Co-inherence and Non-existence.'

2. 'Amongst those (categories ), Substances [ the abodes of

Qualities ] are nine; — Earth, Water, Light, Air, Ether, Time, Place,

Soul and Mind.'

</page>