Proofing

This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ तर्कसङ्ग्रहः ॥
 
</title>
<subtitle>
। दीपिकया सहितः ।
 

 
F
 
</subtitle>
<verse>
विश्वेश्वरं साम्बमूर्तितिं प्रणिपत्य गिरं गुरुम् ।

टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥
 
उत
 
की
 
</verse>
<p text="C">
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमित-

श्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशि-

क्षार्थं निबध्नञ्चिकीर्षितं ग्रन्थादौ प्रतिजानीते । निधायेति ।
 
</p>
<verse>
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।

बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
 
*
 
</verse>
<p text="C" merge-next="true">
ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेपि किर-

णावल्यादौ निर्विघ्नपरिसमाप्त्यदर्शनात् । मङ्गलाभावेपि कादम्बर्या-

दौ समाप्तिदर्शनात् ॥ अन्वयव्यतिरेकव्यभिचारादिति चेन्न ।

किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ तु ग्रन्था-

द्बहिरेव मङ्गलं कृतम् । अतो न व्यभिचारः ॥ ननु मङ्गलस्य

कर्तव्यत्वे किं प्रमाणमिति चेन्न । शिष्टाचारानुमितश्रुतेरेव प्रमाण-

त्वात् ॥ तथाहि । मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीत-

शिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाया-

लौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतेति । शिष्टपदं
 
* •
</p>
<p text="T">&apos;
Having placed in my heart the Lord of the world, [having

meditated on God ], and having saluted my preceptor, I compose this

Compendium of Logical results for the pleasant comprehension of the

uninstructed.'
 
&apos;</p>
</page>