2026-04-25 02:58:00 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ तर्कसङ्ग्रहः ॥
। दीपिकया सहितः ।
৯
F
विश्वेश्वरं साम्बमूर्ति प्रणिपत्य गिरं गुरुम् ।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥
उत
की
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमित-
श्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशि-
क्षार्थ निबभञ्चिकीर्षितं ग्रन्थादौ प्रतिजानीते । निधायेति ।
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
*
ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेपि किर-
णावल्यादौ निर्विघ्नपरिसमात्यदर्शनात् । मङ्गलाभावेपि कादम्बर्या-
दौ समाप्तिदर्शनात् ॥ अन्वयव्यतिरेकव्यभिचारादिति चेन्न ।
किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ तु ग्रन्था-
द्बहिरेव मङ्गलं कृतम् । अतो न व्यभिचारः ॥ ननु मङ्गलस्य
कर्तव्यत्वे किं प्रमाणमिति चेन्न । शिष्टाचारानुमितश्रुतेरेव प्रमाण-
त्वात् ॥ तथाहि । मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीत-
शिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाया-
लौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतेति । शिष्टपदं
* • Having placed in my heart the Lord of the world, [having
meditated on God ], and having saluted my preceptor, I compose this
Compendium of Logical results for the pleasant comprehension of the
uninstructed.'