2026-04-25 04:21:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४८
</ignore>
<p text="C">श्रवणादीनामात्मसाक्षात्कार हेतुत्वबोधनात् । श्रुत्या देहादिविलक्ष-
णात्मज्ञाने प्यसम्भवादिनिवृत्तेर्युत्क्त्यनुसन्धानरूपमननसाध्यत्वान्मन-
नोपयोगिपदार्थनिरूपणद्वाराशास्त्रस्यापिमोक्षोपयोगः । तदनन्तरं
श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्ष-
णात्मसाक्षात्कारे सति देहादावहमभिमानरूपमिथ्याज्ञाननाशे सति
दोषाभावात्प्रवृत्त्यभावे धर्माधर्मयोरभावाज्जन्माभावे पूर्वधर्माधर्म-
योरनुभवेन नाशे चरमदुःखध्वंसलक्षणो मोक्षो जायते । ज्ञानमेव
मोक्षसाधनं मिथ्याज्ञाननिवृत्तेज्ञनिर्ज्ञानमात्रसाधनत्वात् । तमेवं विदि-
त्वातिमृत्युमेति । नान्यः पन्था विद्यतेयनायेति साधनान्तरनिषेधाच्च ।
ननु
</p>
<verse text="C"><quote>तत्प्राप्तिहेतुविज्ञानं कर्म चोक्तं महामुनेः ।
</quote></verse>
<p text="C">इति । कर्मणो मोक्षसाधनत्वस्मरणात् ॥ ज्ञानकर्मणोः समुच्चय
इति चेन्न ।
</p>
<verse text="c"><quote>नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ।
अभ्यासात्पक्वविज्ञानं कैवल्यं लभते नरः ॥
</quote></verse>
<p text="C">इत्यादिना कर्मणो ज्ञानसाध्यत्वप्रतिपादनात् ॥ ज्ञानद्वारैव मो-
क्षसाधनं न साक्षात् । तस्मात्पदार्थज्ञानस्य मोक्षः परमं प्रयोजन-
मिति सर्ववं रमणीयम् ॥
</p>
<verse>कणादन्याय मतयोबीर्बालव्युत्पत्तिसिद्धये ।
अन्नंभट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ *
</verse>
<trailer>॥ इति महोपाध्यायान्नंभट्टविरचितः स्वकृतदीपिका-
समेतस्तर्कसङ्ग्रहः समाप्तः ॥
</trailer>
<trailer>॥ शुभं भवतु ॥
*</trailer>
<p>This Compendium of Logical results was composed by the
learned Annam Bhatta, in order to perfect the acquaintance of stu-
dents with the opinions of <italic>Kanaṇâda</italic> and of the <italic>Nyaâya</italic>.
</p>
</page>
<ignore>४८
<p text="C">श्रवणादीनामात्मसाक्षात्कार
णात्मज्ञाने
नोपयोगिपदार्थनिरूपणद्वाराशास्त्रस्यापिमोक्षोपयोगः । तदनन्तरं
श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्ष-
णात्मसाक्षात्कारे सति देहादावहमभिमानरूपमिथ्याज्ञाननाशे सति
दोषाभावात्प्रवृत्त्यभावे धर्माधर्मयोरभावाज्जन्माभावे पूर्वधर्माधर्म-
योरनुभवेन नाशे चरमदुःखध्वंसलक्षणो मोक्षो जायते । ज्ञानमेव
मोक्षसाधनं मिथ्याज्ञाननिवृत्ते
त्वातिमृत्युमेति । नान्यः पन्था विद्यतेयनायेति साधनान्तरनिषेधाच्च ।
ननु
<verse text="C"><quote>तत्प्राप्तिहेतुविज्ञानं कर्म चोक्तं महामुनेः ।
<p text="C">इति । कर्मणो मोक्षसाधनत्वस्मरणात् ॥ ज्ञानकर्मणोः समुच्चय
इति चेन्न ।
<verse text="c"><quote>नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ।
अभ्यासात्पक्वविज्ञानं कैवल्यं लभते नरः ॥
<p text="C">इत्यादिना कर्मणो ज्ञानसाध्यत्वप्रतिपादनात् ॥ ज्ञानद्वारैव मो-
क्षसाधनं न साक्षात् । तस्मात्पदार्थज्ञानस्य मोक्षः परमं प्रयोजन-
मिति सर्
<verse>कणादन्याय
अन्नंभट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥
<trailer>॥ इति महोपाध्यायान्नंभट्टविरचितः स्वकृतदीपिका-
समेतस्तर्कसङ्ग्रहः समाप्तः ॥
<trailer>॥ शुभं भवतु ॥
*
<p>This Compendium of Logical results was composed by the
learned Annam Bhatta, in order to perfect the acquaintance of stu-
dents with the opinions of <italic>Ka
</page>