2026-04-25 02:58:13 by ambuda-bot
This page has not been fully proofread.
४७
विधिः । तत्प्रतिपादको लिङादिर्वा । कृत्यसाध्ये प्रवृत्यदर्शनात्कृ-
तिसाध्यताज्ञानं प्रवर्तकम् । न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः ।
इष्टसाधनता लिङ्गकृतिसाध्यताज्ञानस्य काम्यस्थले नित्यनैमित्तिक-
स्थले च विहितकालजीवित्वनिमित्तकज्ञानजन्यत्वस्यैव प्रवर्तकत्वा-
त् । न चानुगमः । स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वा-
दिति गुरुव्रतम् । तन्न । लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव
चिकीर्षाद्वारा प्रयत्नजनकत्वात् । न च नित्येष्टसाधनत्वाभावादप्र-
वृत्तिप्रसङ्गः । तत्रापि प्रत्यवायपरिहारस्य पापक्षयफलत्वस्य च
कल्पनात् । तस्मात्कृतिसाध्येष्टसाधनत्वमेव लिङाद्यर्थः ॥ ननु
ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र लिङा स्वर्गसाधनकार्यं प्रती-
यते । यागस्याशुविनाशिनः कालान्तरभावि स्वर्गसाधनत्वायोगा-
द्योग्यं स्थायिकार्यमपूर्वमेव लिङर्थः । कार्यं कृतिसाध्यं कृतेः स-
विषयत्वात् । विषयाकांक्षायां यागो विषयत्वेनान्वितस्य कार्य-
मिति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्य परतयान्वितकार्य-
बोध्यो नियोज्यः । तेन ज्योतिष्टोमनामकयागविषयकं स्वर्गकामस्य
कार्यमिति वाक्यार्थः सम्पद्यते । वैदिकालिङित्वाद्यावज्जीवमग्निहोत्रं
जुहुयादिति नित्यवाक्ये सत्यपूर्वमेव वाच्यं कल्प्यते ॥ आरोग्य-
कामो भैषजपानं कुर्यादित्यादौ लौकिकलिङ्कार्ये लक्षणेति चेन्न ।
आतुरस्याप्यारोग्यतानिश्श्रयाभावेन साधनतया प्रतीत्यनन्तरं नि-
वाहार्थमवान्तरव्यापारतयापूर्वस्य कल्पनात् । कीर्तनादिना ना-
शश्रुतेर्न यागध्वंसो व्यापारः । लोकव्युत्पत्तिबलात् । क्रियायामेव
कृतिसाध्येष्टसाधनत्वं लिङा बोध्यत इति लिङत्वेन रूपेण विध्यर्थ-
त्वम् । आख्यातत्वेन प्रयत्नार्थकत्वम् । पचति पाकं करोतीति विव-
रणदर्शनात् । किं करोतीति प्रश्ने पचतीत्युत्तराच्चाख्यातस्य प्रयत्ना-
त्वनिश्चयात् । रथो गच्छतीत्यादावनुकूलव्यापारे लक्षणा । देवद-
तः पचति तण्डुला देवदत्तेन पच्यते तण्डुलमित्यत्र कर्तृकर्मणोर्ना -
ख्यातार्थत्वम् । किंतु तद्गतैकत्वादीनामेव । तयोराक्षेपादेव लाभः ।
प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः । उपसर्गाणां द्योतकत्वमेव
न तत्र शक्तिरिति ॥ पदार्थज्ञानस्य परमप्रयोजनं मोक्षः । तथाहि ।
आत्मावारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुत्या