Proofing

This page has not been fully proofread.

४६
 
ननु प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय-
 
वादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्वज्ञानान्निः
श्रेयसाधिगम इति न्यायशास्त्रे षोडशपदार्थानामुक्तत्वात्कथं सप्तैवे-
त्यत आह । सर्वेषामिति । सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः ॥
आत्मशरीरेन्द्रियार्थमनोबुद्धिप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयमिति द्वादशविधं प्रमेयम् । प्रवृत्तिर्धर्माधर्मौ । रागद्वेषमो-
हा दोषाः । रागाद्वेषो मन्युः । मोहः शरीरादावात्मभ्रमः । प्रेत्य-
भावो मरणम् । फलं भोगः । अपवर्गो मोक्षः । स च स्वसमाना-
धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । प्रयोजनं सुखं
दुःखं हानिश्च । दृष्टान्तो महानसादिः । प्रामाणिकत्वेनाभ्युपगतोर्थः
सिद्धान्तः । निर्णयो निश्चयः प्रमाणफलम्। तत्वबुभुत्सोः कथा वादः।
उभयसाधनवती विजिगीषुकथा जल्पः ।
स्वपक्षस्थापनहीना वितण्डा।
कथानामनानावक्तृकपूर्वोत्तरपक्षवाक्यसन्दर्भः । अभिप्रायान्तरेण प्रयु-
तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् । असदुत्तरं जातिः । साध-
वैधम्र्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गदृष्टा-
न्तानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपपत्त्यविशेषोपलब्ध्यनु-
पलब्धिकारणं नित्यानित्यकार्य समजातिः । वादिनोपराजयहेतु-
निग्रहस्थानम् । प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञा-
संन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तका-
लं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाविक्षेपो मता-
नुज्ञापर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासच
निग्रहस्थानानि । शेषं सुगमम् ॥ ननु करतलानलसंयोगे सत्यपि
प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेन्न ।
प्रतिबन्धकाभावस्य कार्यमात्रकारणत्वेन शक्तेरनुपयोगात् । कारण-
स्यैव शक्तिपदार्थत्वमिति ॥ ननु भस्मादिना कांस्यादौ शुद्धिदर्शना-
दाधेयशक्तिरङ्गीकार्येति चेन्न । भस्मादिसंयोगसमानकालीना स्पृश्य-
स्पर्शप्रतियोगि कयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिप-
दार्थत्वात् । स्वत्वमपि न पदार्थान्तरम् । यथेष्टविनियोगयोग्यत्वस्य
स्वत्वरूपत्वात् । तदवच्छेदकं च प्रतिग्राहादि लब्धत्वमेवेति ॥
 
अथ विधिर्निरूप्यते ॥ प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो