Proofing

This page has not been fully proofread.

४५
 
समवायिकारणवृत्तिः प्रतियोगिजनको भविष्यतीति व्यवहारहेतुः
प्रागभावः ॥ प्रध्वंसं लक्षयति । सादिरिति । घटादावतिव्याप्तिवार-
णायानन्त इति । आकाशादावतिव्याप्तिवारणाय सादिरिति । प्रतियो-
गिजन्यः प्रतियोगिसमवायिवृत्तिध्वस्तव्यवहारहेतुर्ध्वंसः ॥ अत्यन्ता-
भावं लक्षयति । त्रैकालिकेति । अन्योन्याभावेतिव्याप्तिवारणाय संस-
र्गावच्छिन्नेति । ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति ॥
अन्योन्याभावं लक्षयति । तादात्म्येति । प्रतियोगितावच्छेदकतया-
रोपसंसर्गभेदादेकप्रतियोगिकयोरत्यन्ताभावान्योन्याभावयोर्बहुत्वम् ।
केवलदेवदत्ताभावो दण्ड्यभाव इति प्रतीत्या विशिष्टाभावः ।
एकसच्चे द्वौ न स्त इति प्रतीत्या द्वित्वावच्छिन्नोभावः । संयोगस-
म्बन्धेन घटवति समवायसम्बन्धेन घटाभावः । तत्तद्घटाभावाद-
टत्वावच्छिन्नप्रतियोगिकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभा-
वोपि । घटत्वावच्छिन्नपटो नास्तीति व्यधिकरणधर्मावच्छिन्नाभा-
वो नाङ्गीक्रियते । पटे घटत्वं नास्तीति तस्यार्थः । अतिरिक्तत्वे
स केवलान्वयी । सामयिकाभावोत्यन्ताभाव एव समवायविशेषे
प्रतीयमानः । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावे-
प्यप्रतीतेर्घटापसरणे सति प्रतीतेः । भूतले घटसंयोगप्रागभावप्रध्वं-
सयोरत्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते । घटवति संयोगप्राग-
भावप्रध्वंसयोरसच्वात् । अत्यन्ताभावस्याप्रतीतिः । घटापसरणे च
संयोगध्वंससच्वात्प्रतीतिरिति । केवलाधिकरणादेव नास्तीति व्य-
वहारोपपत्तावभावो न पदार्थान्तरमिति गुरवः । तन्न । अभावान-
ङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात् । अभावाभावो भाव एव
नातिरिक्तः ः । अनवस्थाप्रसङ्गात् ॥ ध्वंसप्रागभावः प्रागभावध्वंसश्च
प्रतियोग्येव । अभावाभावोतिरिक्त एव । तृतीयाभावस्य प्रथमत्वा-
न्नानवस्थेति नवीनाः ॥
 
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तै-
व पदार्था इति सिद्धम् ॥ ७० ॥
 

 
70. 'Since every thing is properly included under the categories
that have been now stated, it is established that there are only seven
categories.'