2026-04-25 02:58:11 by ambuda-bot
This page has not been fully proofread.
३९
रात्रिभोजनमर्थापच्या कल्प्यत इति चेन्न । देवदत्तो रात्रौ भुङ्क्ते
दिवाभुञ्जानत्वे सति पीनत्वादित्यनुमानेनैव रात्रिभोजनस्य सिद्ध-
त्वात् । अनुपलब्धिर्न मानम् । परिशेषोप्यनुमय्यैव । शते पञ्चाश-
दिति सम्भवोप्यनुमानमेव । इह वटे यक्षस्तिष्ठतीत्यैतिह्यमज्ञातमूल-
वक्रकशब्द एव ॥ चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न
मानान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ।
सर्वेषां ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वेति
विचार्यते ॥ अत्र विप्रतिपत्तिः । ज्ञानप्रामाण्यं तदप्रामाण्याग्रा-
हकयावज्ञानग्राहकसामग्रीग्राह्यं वा । अत्र विधिकोटिः स्व-
तस्त्वं निषेधकोटिः परतस्त्वम् । अनुमानग्राह्यत्वेन सिद्धसा
धनतावारणाय यावदिति । इदं ज्ञानमप्रमेति ज्ञाने प्रामाण्यग्राह-
कत्वाद्वाधवारणायाप्रामाण्याग्राहकेति । इदं ज्ञानमप्रमेत्वनुव्य-
न
वसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं
स्यादतस्तदिति । तस्मिन्प्रामाण्याश्रयेप्रामाण्या ग्राहक इत्यर्थः ।
उदाहृतस्थले व्यवसायेप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राह-
कत्वात्स्वतस्त्वसिद्धिः ॥ ननु स्वत एव प्रामाण्यं गृह्यते । घटमहं
जानामीत्यनुव्यवसायेन घटघटत्वयोरिव नियतसम्बन्धस्यापि विष-
यीकरणात् । व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रका-
रसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेन्न । स्वतः प्रामाण्यग्रहे जल-
ज्ञानं प्रमाणं न वेत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् ।
अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात्स्वतोग्राह्य-
त्वाभावात् । परतो ग्राह्यत्वम् । तथाहि प्रथमं जलज्ञानान-
न्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्न जलज्ञानं प्रमा । स-
मर्थप्रवृत्तिजनकत्वान्नैवं तन्नैवम् । यथाप्रमेति व्यतिरेकिणा प्रमात्वं
निश्रीयते । द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्व लिङ्गेन
चान्वयव्यतिरेकिणा गृह्यते । प्रमायां गुणजन्यत्वमुत्पत्तौ परतस्त्वम्।
प्रमासाधारणकारणं गुणः । अप्रमासाधारणकारणं दोषः । तत्र प्रत्यक्षेपि
विशेषणवद्विशेष्यसन्निकर्षो गुणः । अनुमितौ व्यापके सति व्याप्य-
ज्ञानम् । उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्य-
ताज्ञानमित्यादि बोध्यम् ॥ पुरोवर्तिनि प्रकाराभावस्य व्यवसायेनानु-