Proofing

This page has not been fully proofread.

२८
 
गौरश्व इति । घटः कर्मत्वमित्यनाका ङ्गोदाहरणं द्रष्टव्यम् ॥
वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदि-
कमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वा-
तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ५१ ॥
 
वैदिकस्य विशेषमाह । वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेद-
स्यानादित्वात्कथमीश्वरोक्तत्वमिति चेन्न । वेदः पौरुषेयो वाक्य-
समुदायत्वाद्भारतादिवत् । न च स्मर्यमाणकर्तृत्वमुपाधिः ॥ गौतमा-
दिभिः शिष्यपरंपरया वेदेपि कर्तुः स्मर्यमाणत्वेन साधनव्यापकत्वात् ।
तस्मात्ते पानान्त्रयो वेदा अजायन्त इति श्रुतेश्व ॥ ननु वर्णा नित्याः। स
एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्य-
त्वमिति चेन्न । उत्पन्नो गकारो नष्टो गकार इति प्रतीत्या वर्णानाम-
नित्यत्वात् । सोयं गकार इति प्रत्यभिज्ञायाः सोयं दीप इति प्रत्य-
भिज्ञानवज्जात्यालम्बनत्वात् । वर्णानां नित्यत्वेप्यानुपूर्विविशि-
ष्टवाक्यस्यानित्यत्वाच्च । तस्मादीश्वरोक्तो वेदः ॥ मन्वादिस्मृतीना-
माचाराणां च वेदमूलकतया प्रामाण्यम् । स्मृतिमूलवाक्यानामिदानी-
मनध्ययनात्तन्मूलभूता काचिच्छाखोत्पन्नेति कल्प्यते ॥ ननु पव्य-
मानवेदवाक्योत्सादस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायु-
क्तत्वान्नित्यानुमेयो वेदो मूलमिति चेन्न । तथा सति वर्णानुपूर्वि -
ज्ञानाभावेन बोधकत्वासम्भवात् । नन्वेतानि पदानि स्वस्मारितार्थ-
संसर्गवन्त्याकाङ्क्षादिमत्पदकदम्बकत्वाद्मद्वाक्यवदित्यनुमानादेव सं-
सर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेन्न । अनुमित्यपे-
क्षया शब्दज्ञानस्य विलक्षणस्य शब्दात्प्रत्येमीत्यनुव्यवसायसा-
क्षिकस्य सर्वसंमतत्वात् ॥ नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ।
पीनो देवदत्तो दिवा न भुङ्क इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या
 
51. 'Speech is of two kinds ;-Sacred and Profane. The former
being uttered by God, is all-authoritative: but the latter, only if
uttered by one who deserves confidence, is authoritative; any other
is not so.'