2026-04-25 02:58:11 by ambuda-bot
This page has not been fully proofread.
३६
दिशब्दानां जातावेव शक्तिः । विशेषणतया जातेः प्रथममुपस्थि-
तत्वात् । व्यक्तिलाभस्त्वाक्षेपादिनेति केचित् । तन्न । गामानयेत्यादौ
वृद्धव्यवहारात्सर्वत्रानयनादेर्व्यक्तावेव सम्भवे जातिविशिष्टव्य-
क्तावेव शक्तिकल्पनात् । शक्तिग्रहस्तु बृद्धव्यवहारेण । व्युत्पित्सु-
बलो गामानयेत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्ति-
मुपलक्ष्य गवानयनं दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्य-
तिरेकाभ्यां वाक्यजन्यत्वं निश्चित्याश्वमानय गां वधानेति वाक्या-
न्तर आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः । अश्वशब्द-
स्याश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते ॥ ननु सर्वत्र कार्यपरत्वा-
इयवहारस्य कार्यवाक्य एव व्युत्पत्तिः । न सिद्धपर इति चेन्न ।
काश्यां त्रिभुवनतिलको भूपतिरित्यादौ सिद्धेपि व्यवहाराहि-
कसितपद्मे मधुकर इत्यादौ सिद्धपदसमभिव्यवहारात्सिद्धेपि मधु-
करादिव्युत्पत्तिदर्शनाच्च ॥ लक्षणापि शब्दवृत्तिः । शक्यसम्ब-
न्धो लक्षणा । गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धा-
देव तीरोपस्थितौ तीरेपि शक्तिर्न कल्प्यते । सैन्धवादौ लवणाश्वयोः
परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम् ॥ लक्षणा त्रिविधा । जह-
लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभा-
वस्तत्र जहदिति । यथा मञ्चाः क्रोशन्तीति । यत्र वाच्यार्थस्याप्य-
न्वयस्तत्राजहदिति । यथा छत्रिणो गच्छन्तीति । यत्र वाच्यैकदेश-
त्यागेनैकदेशान्वयस्तत्र जहदजहदिति । यथा तच्वमसीति ॥
गौण्यपि लक्षणैव । लक्ष्यमाणगुणसम्बन्धरूपा । अग्निर्माणवक इति ॥
व्यञ्जनापि लक्षणान्तर्भूतार्थशक्तिमूला च । अनुमानादिनान्यथा-
सिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रतीतीच्छयोच्चरितत्वं
तात्पर्यम् । तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः । नानार्थानुरोधात्तु
प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दाव्या-
हारः ॥ नन्वर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासम्भ-
वादर्थाध्याहार एव युक्त इति चेन्न । पदविशेष्यजन्य पदार्थोपरि-
स्थितेः शाब्दज्ञानहेतुत्वात् । अन्यथा घटः कर्मत्वमानयनं कृतिरि-
त्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिरवयवश-
क्तिर्योगः । समुदायशक्ती रूढिः । नियतपद्मत्वज्ञानार्थं समुदाय-
।