2026-04-25 02:58:10 by ambuda-bot
This page has not been fully proofread.
३४
विभजते । स त्रिविध इति ॥ साधारणं लक्षयति । तत्रेति ॥ उदा-
हरति । यथेति ॥ असाधारणं लक्षयति । सर्वेति ॥ अनुपसंहारिणो
लक्षणमाह । अन्वयेति ॥ विरुद्धं लक्षयति । साध्येति ॥ सत्प्रतिपक्षं
लक्षयति । यस्येति ॥ असिद्धं विभजते । असिद्ध इति ॥ आश्रया-
सिद्धमुदाहरति । गगनेति ॥ स्वरूपासिद्धमुदाहरति । शब्देति ॥ व्या-
प्यत्वासिद्धस्य लक्षणमाह । सोपाधिक इति ॥ उपाधिलक्षणमाह ।
साध्येति । उपाधिश्चतुर्विधः । केवलसाध्यव्यापकः पक्षधर्मावच्छि
न्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकः उदासीनपक्ष-
धर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्य आर्द्रेन्धनसंयोगः । द्वितीयो
यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वाव-
च्छिन्नप्रत्यक्षत्वव्यापक मुद्भूतरूपत्वम् । तृतीयो यथा प्रध्वंसो वि-
नाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।
चतुर्थो यथा प्रागभावो विनाशी प्रमेयत्वादित्यत्र जन्यत्वावच्छिन्ना-
नित्यत्वव्यापकं भावत्वम् ॥ बाधितस्य लक्षणमाह । यस्येति । अत्र
बाधस्य ग्राह्याभावनिश्वयत्वेन सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन
साक्षादनुमितिप्रतिबन्धकत्वम् । इतरेषां तु परामर्शप्रतिबन्धकत्वम् ।
तत्रापि साधारणस्याव्यभिचाराभाववत्तया विरुद्धस्य सामानाधिक-
रण्याभाववत्तया व्यापकत्वासिद्धस्य विशिष्टव्यात्यभाववत्तयासा-
धारणानुपसंहारिणोर्व्याप्तिसंशयाध्यायकत्वेन नच व्याप्तिज्ञानप्रतिब-
न्धकत्वम्। आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धक-
त्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः ।
सिद्धसाधनं तु पक्षताविघटकतयाश्रयासिद्धेन्तर्भूतमिति न निग्रह-
स्थानान्तरमिति नवीनाः ॥
उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्ध-
ज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अति-
देशवाक्यार्थस्मरणमवान्तरव्यापारः । तथाहि ।
because it is a substance.' There coldness is to be proved; and its op-
posite, warmth, is apprehended by the very sense of touch. Hence the
argument is futile.'