Proofing

This page has not been fully proofread.

माघटत्वाद
वाद: गंध वानू राहातू
 
३१
 
स्यापि पक्षत्वादृष्टान्तो नास्ति । साध्याभावव्याप्यो
हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति ।
कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ।
साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रति-
पक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्वव-
दिति । शब्दानित्यः कार्यत्वाद्वदवदिति । असिद्ध-
स्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वा-
सिद्धश्वेति । आश्रयासिद्धो यथा गगनारविन्दं
सुरभ्यरविन्दत्वात्। सरोजारविन्दवत् । अत्र गगना-
रविन्दमाश्रयः । स च नास्त्येव । स्वरूपासिद्धो यथा
शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुपत्वं शब्दे
नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्य-
त्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक.
उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रति-
योगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ता-
भावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो
धूम-
वान्वन्हिमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः ।
तथाहि । यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्य-
व्यापकता । यत्र वन्हिस्तत्रार्द्रेन्धनसंयोगो नास्ति ।
अयोगोलक आर्द्रेन्धनसंयोगाभावादिति साधना-
व्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्याप-
कत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्व-
हिमत्त्वं व्याप्यत्वासिद्धम् । यस्य साध्याभावः