2026-04-25 02:58:08 by ambuda-bot
This page has not been fully proofread.
२८
अनुमितिकरणमाह । स्वार्थेति ननु व्याप्तिस्मृतिपक्षधर्मताज्ञा-
नाभ्यामेवानुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति
चेन्न । वन्हिव्याप्यधूमवानयमिति शाब्दपरामर्शस्थले परामर्शस्या-
वश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न कर-
णम् । अतीदादौ व्यभिचारात् । व्यापारवत्कारणं करणमिति
मते परामर्शद्वारा व्याप्तिज्ञानं पक्षज्ञानं साध्यज्ञानं लिङ्गज्ञानं यत्कि -
चिज्जन्यज्ञानमात्रं वा परामर्शव्यापारकं करणम् । तज्जन्यत्वे सति
तज्जन्यजनको व्यापारः ॥ अनुमानमुपसंहरति । तस्मादिति ॥
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि
केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च
व्याप्तिमदन्वयव्यतिरेकि । यथा वन्हौ साध्ये धूम-
त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्व-
यव्याप्तिः । यत्र वन्हिर्नास्ति तत्र धूमपि नास्ति
यथा महा-हद इति व्यतिरेकव्याप्तिः । अन्वयमात्र-
व्याप्तिकं केवलान्वयि । यथा घटोभिधेयः प्रमेय-
त्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेक-
व्याप्तिर्नास्ति । सर्वस्य प्रमेयत्वादभिधेयत्वाच्च व्यति-
रेकमात्र व्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरे-
भ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते
न तद्गन्धवत् । यथा जलम् । न चेयं तथा ।
तस्मान्न तथेति । अत्र यगन्धवत्तदितरभिन्नमित्य-
न्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४ ॥
44. 'A sign is of three sorts;-That which may betoken by its
presence or by its absence; That which betokens only by its presence;
and That which betokens only by its absence. The first is that token
which is possessed of pervading inherence both in respect of its asso-