Proofing

Sorry, you aren't authorized to use this feature.

This page has not been fully proofread.

प्यासिनि का देश देश प्रतापिता यी हरिठा मारता
ननिरूपिता पक्ष शताभिरूपिता विशेष्पिता शाहि
ज्ञानं परामर्श:.
 
२५
 
- अनुमानं लक्षयति । अनुमितिकरणमिति ॥ अनुमितेर्लक्षण-
माह । परामर्शेति ॥ ननु संशयोत्तरप्रत्यक्षेतिव्याप्तिः । स्थाणुपुरुष-
संशयानन्तरं पुरुषत्वव्याप्यकरादिमानयमिति परामर्शे सति पु-
रुष एवेति प्रत्यक्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् ।
पुरुषं साक्षात्करोमीत्यनुव्यवसायविरोधादिति चेन्न । पक्षतासह-
कृतपरामर्शजन्यत्वस्य विवक्षितत्वात् । सिषाधयिषाविरहसहकृत-
सिध्यभावः पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसच्चे-
प्यनुमिनोमीतीच्छायामनुमितिदर्शनात् । सिषाधयिषोत्तेजिका ।
ततश्चोत्तेजिकाभावविशिष्टमण्यभावस्य दाहकरणत्ववत् । सिषाध-
यिषा विरहसहकृतसिध्यभावस्याप्यनुमितिकारणत्वम् ॥ परामर्श
लक्षयति । व्याप्तीति । व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स प-
रामर्श इत्यर्थः ॥ परामर्शमभिनीय दर्शयति । यथेति । अनुमितिम-
भिनीय दर्शयति । तज्जन्यमिति । परामर्शजन्यमित्यर्थः ॥ व्याप्ते-
र्लक्षणमाह । यत्रेति । यत्र धूमस्तत्राग्निरित्यभिनयः । साहचर्यनि-
यम इति लक्षणम् । साहचर्यं सामानाधिकरण्यं तस्य नियमः ।
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्या-
प्तिरित्यर्थः ॥ पक्षधर्मतास्वरूपमाह । व्याप्यस्येति ॥
 
/
 
अनुमानं द्विविधम् । स्वार्थ परार्थ च । स्वार्थ स्वानु-
मितिहेतुः । तथाहि स्वयमेव भूयो भूयो दर्शनेन यत्र
यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा
पर्वतसमीपं गत्वा तद्गते चाग्नौ सन्दिहानः पर्वते
धूमं पश्यन्व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति ।
तदनन्तरं वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञा-
 
that 'the hill is fiery', is an inference. Invariable attendedness is the
fact of being constantly accompanied; as, — in the example 'Wher-
ever there is sitke, there is fire [ by which it is invariably attended]'.
By 'the subject's possessing a character &c.,' is meant that in a moun-
tain &c. there is present that which is invariably attended.'