Proofing

This page has not been fully proofread.

ज्या थारस्तु परामर्श: कर पाया की भवन
अनुमितौ
 
२४
 
पत्वेतिं ॥ समवायमुदाहरति । श्रोत्रेणेति । तदुपपादयति । कर्णे-
ति ॥ ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेन्न । वीचितरङ्ग-
न्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रो-
त्रदेशे जातस्य श्रोत्रसम्बन्धात्प्रत्यक्षत्वसम्भवात् ॥ समवेतसम-
वायमुदाहरति । शब्दत्वेति । विशेषणविशेष्यभावमुदाहरति । अ-
भावेति । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः ॥ तदुप-
पादयति । घटाभाववदिति । भूतलं विशेष्यं घटाभावो विशेषणम्।
भूतले घटो नास्तीत्यत्र घटाभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेना-
नुपलब्धेः प्रमाणान्तरत्वं निरस्तम् ॥ यद्यत्र घटोभविष्यत्तर्हि भूतल-
मिवाद्रक्ष्यत् । दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसच्त्वविरोध्यनु-
पलब्धि सहकृवेन्द्रियेणैवाभावज्ञानोपपत्तावनुलठधेः प्रमाणान्तरत्वा-
सम्भवात् । अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्ता-
वनुलब्धेः करणत्वस्यायुक्तत्वात् ॥ विशेषणविशेष्यभावो विशेषणवि-
शेष्य स्वरूपमेव नातिरिक्तः सम्बन्धः ॥ प्रत्यक्षज्ञानमुपसंहरन्तस्य
करणमाह । एवमिति । असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञान-
करणमित्यर्थः ॥ प्रत्यक्षमुपसंहरति । तस्मादिति ॥
 
अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञान-
'मनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ।
यथा वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानं परा-
मर्शः । तज्जन्यं पर्वतो वन्हिमानिति ज्ञानमनुमि-
तिः । यत्र यत्र धूमस्तत्राग्निरिति साहचर्यनियमो
व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४० ॥
 
40. 'The instrument (in the production) of an inference is a gene-
ralized Fact. An Inference is the knowledge that arises from deduction.
Deduction is the ascertaining that the subject possesses that charac-
ter which is invariably attended [by what we then predicate of it.]
For example, the knowledge that, this hill is characterised by
smoke, which is always attended by fire,' is a deductive application
of a general principle; the knowledge produced from which, viz.
 
पक्ष, साध्य, हे.ई,
दृष्टान्त
menor major. Mittle