Proofing

This page has not been fully proofread.

२२
 
म्बन्धानवगाहि ज्ञानमित्यर्थः ॥ ननु निर्विकल्पके किं प्रमाणमिति
चेन्न । गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् ।
दण्डीति ज्ञानवदित्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्य स-
विकल्पकत्वेनवस्थाप्रसङ्गान्निर्विकल्पसिद्धिः ॥ सविकल्पकं लक्षयति ।
सप्रकारमिति । नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि ज्ञान-
मित्यर्थः ॥ सविकल्पकमुदाहरति। यथेति ॥
 
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । सं-
योग-संयुक्तसमवाय- संयुक्तसमवेतसमवाय-समवा-
 
य-समवेतसमवाय-विशेषणविशेष्यभावा इति ।
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घट-
रूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । च-
क्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्य-
प्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः-
संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः ।
कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वाच्छन्दस्याकाशगु-
णत्वाद्गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षा-
कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते
शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशे-
पणविशेष्यभावः सन्निकर्षः । घटाभाववद्भूतलमि-
त्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।
एवं सन्निकर्षपटुजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमि-
न्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रम्राणमिति सि-
द्धम् ॥ ३९ ॥