Proofing

This page has not been fully proofread.

२१
 

 
कारणं विभजते । कारणमिति ॥ समवायिकारणलक्षणमाह ।
यत्समवेतेति । यस्मिन्समवेतमित्यर्थः ॥ असमवायिकारणं लक्ष-
यति । कार्येणेति । कार्येणेत्येतदुदाहरति । तन्तुसंयोग इति । कार्ये-
ण पटेनैकस्मिन्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिका-
रणमित्यर्थः ॥ कारणेन सहेत्येतदुदाहरति । तन्तुरूपमिति । कार-
 
न पटेन सहैकस्मिन्तन्तौ समवेतत्वात्तन्तुरूपं पटरूपस्यासम-
वायिकारणमित्यर्थः ॥ निमित्तकारणं लक्षयति । तदुभयैति । सम-
वायसमवायिभिन्नं कारणं निमित्तकारणमित्यर्थः ॥ करणलक्ष-
णमुपसंहरति । तदेतदिति ॥
 
specifie
 
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्नि
कर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम् । निर्विक-
ल्पकं सविकल्पकं च । तत्र निष्प्रकारकं ज्ञानं नि-
र्विकल्पकम् । यथेदं किञ्चित् । सप्रकारकं ज्ञानं
सविकल्पकम् । यथा डित्थोयं ब्राह्मणोयं श्यामो-
यमिति ॥ ३८ ॥
 
प्रत्यक्षलक्षणमाह । तत्रेति । प्रमाणचतुष्टयमध्य इत्यर्थः ॥ प्रत्य-
क्षज्ञानस्य लक्षणमाह । इन्द्रियेति । इन्द्रियं चक्षुरादिकम् । अर्थो
घटादिः । तयोः सन्निकर्षः संयोगादिः । तज्जन्यं ज्ञानमित्यर्थः ॥
निर्विकल्पकस्य लक्षणमाह । निष्प्रकारकमिति । विशेषणविशेष्यस-
 
brush, tho loom &c. are of cloth. Among these three kinds of causes,
that only is called an instrumental cause which is not a universally
concurront cause or condition ( of all effects as God, time &c. are ).'
 
38. The Cause of the knowledge, called sensation is an organ of
sense; knowledge produced by the conjuction of an organ of sense and
its object, is sensation. It is of two kinds; – Where it does not pay
regard to an alternative, and Where it does. The knowledge which
does not pay regard to an alternative is that which involves no speci-
fication, as, in the simple cognition that 'this is something that exists.'
The knowledge which contemplates an alternative is that which
includes a specification, as, 'This is Dittha, 'This is Brahman',
• This is black,"