Proofing

This page has not been fully proofread.

संख्यां लक्षयति । एकत्वेति ॥
 
१५
 
मानव्यवहारासाधारणं कारणं परिमाणं नव-
द्रव्यवृत्ति । तच्च चतुर्विधम् । अणु महद्दीर्घ हस्वं
चेति ॥ २५ ॥
 

 
परिमाणं लक्षयति । मानेति ॥ परिमाणं विभजते । तच्चेति ।
भावप्रधानो निर्देशः । अणुत्वं महत्वं दीर्घत्वं हस्वत्वं चेत्यर्थः ॥
पृथग्व्यवहारासाधारणं कारणं पृथक्तत्वं सर्व-
 
द्रव्यवृत्ति ॥ २६ ॥
 
इलाक
 
पृथक्त्वं लक्षयति । ष्टथगिति । इदमस्मात्ष्टथगिति व्यवहार-
कारणमित्यर्थः ॥
 
संयुक्तव्यवहारासाधारणो हेतुः संयोगः सर्व-
 
द्रव्यवृत्तिः ॥ २७ ॥
 
1
 
संयोगं लक्षयति । संयुक्तेति । इमौ संयुक्ताविति व्यवहारहेतु-
रित्यर्थः । संख्यादिलक्षणेषु सर्वत्र दिक्कालादावतिव्याप्तिवारणाया-
साधारणेति ॥ संयोगो द्विविधः । कर्मजः संयोगजव । आद्यो
हस्तक्रियया पुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात्कायपु-
स्तकसंयोगः । स चाव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधि-
करणत्वमव्याप्यवृत्तित्वम् ॥
 
संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः २८
 
25. The peculiar cause of the conception of Bulk, is called
Measure. It resides in the nine substances. And it is of four kinds ;
-Sinall, Great, Long and Short.'
 
"
 
26. The peculiar cause of the conception of distinct things is
called Severalty. It resides in all the substances.'
 
27. The peculiar cause of the conception of conjoined things is
called Conjunction. It resides in all the substances.'
 
28. That quality which annihilates Conjunction, is called Dis-
junction. It resides in all the substances.'