Proofing

This page has not been fully proofread.

१४
 
यत् पाक अंतत् पृथिव्याम
 
रूपादिचतुष्टयं ष्टथिव्यां पाकजमनित्यं च । अ-
न्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् ।
अनित्यगतमनित्यम् ॥ २३ ॥
 
॥ रूपादीति । पाकस्तेजः संयोगः । तेन पूर्वरूपं नश्यति रूपान्तर-
मुत्पद्यत इत्यर्थः ॥ अत्र परमाणुष्वेव पाकः । न द्व्यणुकादौ । तत-
वामपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुन
णुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकार-
णम् । तेजःसंयोगोसमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् ।
णुकादिरूपे कारणरूपमसमवायिकारणमिति पीलुपाकवादिनो
वैशेषिकाः । पूर्वघटस्य नाशं विनैवावयवविन्यवयवेषु परमाणुपर्य-
न्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैय्यायिकाः। अत
एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः ॥ अन्यत्रेति । जलादा-
वित्यर्थः ॥ नित्यगतमिति । परमाणुगतमित्यर्थः ॥ अनित्यगतमिति ।
इणुकादिनिष्ठमित्यर्थः ॥ रूपादिचतुष्टयमुद्भूतं प्रत्यक्षम् । अनुद्भूत-
मप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षप्रयोजको धर्मः । तदभावोनुद्भूतत्वम् ॥
एकत्वादिव्यवहारासाधारणहेतुः संख्या । सा
नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं
नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतम-
नित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ २४ ॥
 
23. • The four of which colour is the first [ Colour, Savour, Odonr
and Tangibility] may be produced in Earth [in earthy things] by
maturation [a special conjunction of Heat ], and they are then transient:
In others [in Water, Light and Air] Colour &c. are not produced
by maturation. They are then Eternal or Transient. When they
reside in eternal things, they are Eternal; and when they reside in
things not eternal, they are said to be 'Transient.'
 
94. "That quality, which is the peculiar cause of the concep-
tion of Unity &c., is called Number. This resides in the nine
substances. Reckoning from Unity, it is as far as a Parardha
[100,000,000,000,000,000 ]. Unity is both Eternal and Non-eternal.
In an eternal thing, it is Eternal ; and in a non-eternal thing, it is
Non-eternal. But Duality &c., is everywhere Non-eternal,'