Proofing

This page has not been fully proofread.

१२
 
मध्यमपरिमाणत्वेनित्यत्वप्रसङ्गादित्यर्थः ॥ ननु मनो विभु स्पर्श-
रहितत्वादाकाशवदिति चेन्न । मनसो विभुत्व आत्ममनः संयोग-
स्यासमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गात् । न च विशुद्वय-
संयोगोस्तीति वाच्यम् । तत्संयोगस्य नित्यत्वेन सुषुप्रयभावप्रसङ्गात्।
पुरिततिव्यतिरिक्तप्रदेश आत्ममनः संयोगस्य सर्वदा विद्यमान-
त्वात् । अणुत्वे तु यदा मनः पुरिततिं प्रविशति तदा सुषुप्तिः ।
यदा निःसरति तदाज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ॥
 
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनील-
पीतरक्त हरितकपिशचित्रभेदात्सप्तविधं पृथिवीज-
लतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभा-
स्वरं शुक्कं जले । भास्वरं शुक्लं च तेजसि ॥ १९ ॥
 
रूपं लक्षयति । चक्षुरिति । संख्यादावतिव्याप्तिवारणाय मा-
 
त्रपदम् । रूपत्वेतिव्याप्तिवारणाय गुणपदम् । प्रभाभित्तिसंयोगेति-
व्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वं वाच्यम् ॥ नन्वव्याप्यवृत्ति-
नीलादिसमुदाय एव चित्ररूपमिति चेन्न । रूपस्य व्याप्यवृत्तित्व-
नियमात् ॥ ननु चित्रपटेवयवरूपस्य प्रतीतिरस्त्विति चेन्न । रूप-
रहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात् । न च रूपवत्समवेतत्वं प्रत्यक्ष-
प्रयोजकं गौरवात् । तस्मात्पटस्य प्रत्यक्षत्वानुपपच्या चित्ररूप-
सिद्धिः ॥ रूपस्याश्रयमाह । पृथिवीति ॥ आश्रयं विभज्य दर्श-
यति । तत्रेति ॥
 
19. 'That quality, which is apprehended only by the sense of
Sight, is called Colour. And it is of seven kinds, through the dif-
ferences of White, Blue, Yellow, Red, Green, Brown and Variegated,
residing in earth, water and light. In earth, colour of all the seven
kinds resides ; in water, white colour not lustrous resides, and in
light, lustrous white colour resides. '