2026-04-25 02:58:03 by ambuda-bot
This page has not been fully proofread.
११
1
आत्मनो लक्षणमाह । ज्ञानेति ॥ आत्मानं विभजते । स द्विविध
इति ॥ परमात्मनो लक्षणमाह । तत्रेति । नित्यज्ञानाधिकरणत्वमी-
श्वरत्वम् ॥ नन्वीश्वरस्य सद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् ।
तद्धि बाह्यमान्तरमिन्द्रियं वा । नाद्यः । अरूपिद्रव्यत्वात् । नान्त्यः।
आत्मसुखादिव्यतिरिक्तत्वात् । नाप्यनुमानम् । लिङ्गाभावात् । ना-
प्यागमः । तथाविधागमाभावादिति चेन्न । अङ्कुरादिकं कर्तृजन्यं
कार्यत्वाद्घटवदित्यनुमानस्य प्रमाणत्वात् । उपादानगोचरा परोक्षज्ञा-
नचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकल-
परमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् । यः सर्वज्ञः स सर्वविदित्याद्या-
गमोपि तत्र प्रमाणम् ॥ जीवस्य लक्षणमाह । जीव इति । सुखा-
दिकं जीवलक्षणम् ॥ ननु मनुष्योहं ब्राह्मणोहमित्यादौ सर्वत्राह-
प्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेन्न । शरीरस्य कर-
पादादिनाशे सति शरीरनाशादात्मनोपि नाशप्रसङ्गात् । नापीन्द्रि
याणामात्मत्वम् । तथात्वे योहं घटमद्राक्षं सोहमिदानीं त्वचा स्ट-
शामीत्यनुसन्धानाभावप्रसङ्गात् । अन्यानुभूतेन्यस्यानुसन्धानायो-
गात् । तस्माद्देहेन्द्रियव्यतिरिक्तो जीवः । सुखदुःखवैचित्र्यात्प्र-
तिशरीरं भिन्नः । स च न परमाणुः । शरीरव्यापि सुखाद्यनुपल-
ब्धिप्रसङ्गात् । न मध्यपरिमाणः । तथा सत्यनित्यत्वप्रसङ्गेन कृत-
नाशाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ॥
सुखदुःखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च
प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥१८॥
मनसो लक्षणमाह । सुखेति । स्पर्शरहितत्वे सति क्रियावच्वं
मनसो लक्षणम् ॥ मनो विभजते । तच्चेति । एकैकस्यात्मन एकैकं
मन इत्यात्मनामनेकत्वान्मनसोप्यनेकत्वमित्यर्थः॥ परमाणुरूपमिति ।
18. That is Mind, whose sense is the cause of the perception of
pleasure, pain, &c. It is innumerable, for it remains with each Soul.
It is in the form of an atom and is eternal,'