Proofing

This page has been fully proofread once and needs a second look.

प्राणः
 
<page>
<ignore>

 
</ignore>
<p text="C">
ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह । शरीरेति । एक एव

प्राणः
स्थानभेदात्प्राणापानादिशब्दैर्व्यवहिह्रियत इत्यर्थः । स्पर्शानु-

मेयो वायुः। तथाहि। यो यं वायौ वाति सत्यनुष्णाशीतस्पर्शो भासते

स स्पर्शः । क्वचिदाश्रितो गुणत्वाद्रूपवत् । न चास्य पृथिव्याश्रयः ।

उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपवच्त्त्वनियमात् । न जलतेजस्यनुष्णा-

शीतत्वात् । न विभुचतुष्टयं सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमा-

णुस्पर्शस्यातीन्द्रियत्वात् । तस्याद्यः प्रतीयमानस्पर्शाश्रयः स वायुः ॥

ननु वायुः प्रत्यक्षः । प्रत्यक्षस्पर्शाश्रयत्वादद्यद्घटवदिति चेन्न । उदूद्भूतरू
-
पवत्त्वस्योपाधित्वात् । यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं तत्रोद्भू-

तरूपवच्चात्त्वमिति घटादौ साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्व-

म्
। न चैवं तप्तवारिस्थतेजसोप्यप्रत्यक्षत्वापत्तिरिष्टत्वात् । तस्माद्-
रू-
परहितत्वाद्वायुरप्रत्यक्षः॥ इदानीं कार्यरूपष्टपृथिव्यादिचतुष्टयस्योत्प-

त्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया

जायते । ततः परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते । त्रिभि-

र्द्व्य
णुकैरुर्त्र्यणुकम् । एवं चतुरणुकादिक्रमेण महती ष्टपृथिवी महत्य

आपो महत्तेजो महान्वायुरुत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य

संजिहीर्षावशात्क्रियया परमाणुद्वयविभागे सति द्व्यणुकनाशः ।

समवायिकारणनाशाश्त्त्र्यणुकनाशः। ततश्चतुरणुकस्येत्येवं प्रपृथिव्यादि-

नाशः । असमवायिकारणनाशाद्द्व्यणुकनाशः । समवायिकारण-

नाशाश्त्त्र्यणुकनाश इति सम्प्रदायः । सर्वत्रासमवायिकारणनाशा-

त्कार्यद्रव्यनाश इति नवीनाः ॥ किं पुनः परमाणुसद्भावे प्रमाणम् ।

उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत्सावयवम्।

चाक्षुषद्रव्यत्वात्पटवत् । त्र्यणुकावयवोपि सावयवो महदारम्भ-

कत्वात्तन्तुवत् । यो द्व्यणुकावयवः स परमाणुः । स च नित्यः ।

कार्यत्वेनवस्थाप्रसङ्गात् । तथा च मेरुसर्पयोरपि समानपरि-

माणत्वापत्तिः । सृष्टिप्रलयसद्भावे धाता यथा पूर्वमकल्पयदित्यादि

श्रुतिः प्रमाणम् ॥
 
</p>
<p>
शब्दगुणमाकाशम् । तच्चैकं विभु नित्यं च ॥१४॥
 
</p>
<p text="T">
14. &apos;That is Ether, in which there resides the quality of sound.

It is one, all-pervading and eternal.'
 
&apos;</p>
</page>