Proofing

This page has not been fully proofread.

प्राणः
 

 
ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह । शरीरेति । एक एव
स्थानभेदात्प्राणापानादिशब्दैर्व्यवहियत इत्यर्थः । स्पर्शानु-
मेयो वायुः। तथाहि। यो यं वायौ वाति सत्यनुष्णाशीतस्पर्शो भासते
स स्पर्शः । क्वचिदाश्रितो गुणत्वाद्रूपवत् । न चास्य पृथिव्याश्रयः ।
उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपवच्वनियमात् । न जलतेजस्यनुष्णा-
शीतत्वात् । न विभुचतुष्टयं सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमा-
णुस्पर्शस्यातीन्द्रियत्वात् । तस्याद्यः प्रतीयमानस्पर्शाश्रयः स वायुः ॥
ननु वायुः प्रत्यक्षः । प्रत्यक्षस्पर्शाश्रयत्वादद्यवदिति चेन्न । उदूतरू
पवत्त्वस्योपाधित्वात् । यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं तत्रोद्भू-
तरूपवच्चामिति घटादौ साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्व-
म । न चैवं तप्तवारिस्थतेजसोप्यप्रत्यक्षत्वापत्तिरिष्टत्वात् । तस्माद्-
परहितत्वाद्वायुरप्रत्यक्षः॥ इदानीं कार्यरूपष्टथिव्यादिचतुष्टयस्योत्प-
त्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया
जायते । ततः परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते । त्रिभि-
इणुकैरुयणुकम् । एवं चतुरणुकादिक्रमेण महती ष्टथिवी महत्य
आपो महत्तेजो महान्वायुरुत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य
संजिहीर्षावशात्क्रियया परमाणुद्वयविभागे सति द्व्यणुकनाशः ।
समवायिकारणनाशाश्यणुकनाशः। ततश्चतुरणुकस्येत्येवं प्रथिव्यादि-
नाशः । असमवायिकारणनाशाद्द्वयणुकनाशः । समवायिकारण-
नाशाश्यणुकनाश इति सम्प्रदायः । सर्वत्रासमवायिकारणनाशा-
त्कार्यद्रव्यनाश इति नवीनाः ॥ किं पुनः परमाणुसद्भावे प्रमाणम् ।
उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत्सावयवम्।
चाक्षुषद्रव्यत्वात्पटवत् । त्र्यणुकावयवोपि सावयवो महदारम्भ-
कत्वात्तन्तुवत् । यो इयणुकावयवः स परमाणुः । स च नित्यः ।
कार्यत्वेनवस्थाप्रसङ्गात् । तथा च मेरुसर्षपयोरपि समानपरि-
माणत्वापत्तिः । सृष्टिप्रलयसद्भावे धाता यथा पूर्वमकल्पयदित्यादि
श्रुतिः प्रमाणम् ॥
 
शब्दगुणमाकाशम् । तचैकं विभु नित्यं च ॥१४॥
 
14. • That is Ether, in which there resides the quality of sound.
It is one, all-pervading and eternal.'