Proofing

This page has not been fully proofread.

3
 

 
चेन्न । अन्वयव्यतिरेकाभ्यां ष्टथिवीगन्धस्यैव तत्र संयुक्तसमवायेन
भानाङ्गीकारात् ॥ ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्ष
णानां कालेतिव्याप्तिरिति चेन्न । सर्वाधारताप्रयोजकसम्बन्धभिन्नस-
म्बन्धेन लक्षणत्वस्याभिमतत्वात् ॥ ष्टथिवीं विभजते । सा. द्विविधे-
ति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । ध्वंसप्रतियोगित्वमनित्यत्वम् ॥
प्रकारान्तरेण विभजते । सा पुनरिति । आत्मनो भोगायतनं शरीरम् ।
यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । तदेव शरीरम् ।
सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे
सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो
विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम् । गन्धवदिन्द्रियं
पार्थिवेन्द्रियम् । गन्धवान्विषयः पार्थिवविषय इति ॥ गन्धग्राहक-
मिति प्रयोजनकथनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः ।
एवमुत्तरत्रापि ज्ञेयम् ॥ पार्थिवविषयं दर्शयति । विषयेति ॥
 
शीतस्पर्शवत्य आपः । ताश्च द्विविधा नित्या अ-
नित्याश्चेति । नित्याः परमाणुरूपाः । अनित्याः का-

र्यरूपाः । ताः पुनस्त्रिविधाः शरीरेन्द्रियविषयभे-
दात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं
जिव्हाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १०॥
 
1
 
अपां लक्षणमाह । शीतेति । उत्पन्नविनष्टजलेव्याप्तिवारणाय
शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्वे तात्पर्यम् ॥ शीतं
 
10. 'That is Water, which appears cold on tonching it. And it is
of two kinds;— Eternal and Non-eternal. In the form of atoms, it is
Eternal; and when a product is produced by those atoms, then that
is called Non-eternal. This [ water in the form of products ] is of three
kinds, through the differences of body, organ of sense, and mass.
The body exists in the world of Varuna. The sense is the percipient
of savour, which is called the Taste, and which resides in the fore-
part of the tongue. The masses are rivers, seas, &c. '