This page has been fully proofread once and needs a second look.

अथ कथम्--
सर्वमापोमयं जगत्--इति प्रयोगः । आपोभिर्मार्जनं कृत्वा इति
स्मृतिश्च ।
अप्-शब्दस्य पान्तत्वेन बहुत्वेनैव च प्रयोगदर्शनात् कथं
सान्तप्रयोगः--इति चेत्--
अत्राहुः । आपः कर्माख्यायाम् (उणादि-६४७) इतिसूत्रे बाहुलकात् सान्तत्वमन्य-
वचनान्तत्वं चेति[^238] । तथा च हलायुधः--
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पम्
कं पानीयं सलिलमुदकं वारि वा शंबरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ (अभिधानरत्नमाला ३-२६)
अत्र आपशब्दस्य एकवचनसाहचर्यात् आप इत्येकवचनान्तमपि कोशकार-
संमतम् । आपः स्त्री भूम्नि वार्वारी इत्यमरस्तु बहुप्रयोगाभिप्रायपर
इति द्रष्टव्यम् ।
 
अथ कथम्--
विन्यस्तमङ्गलमहौषधिरीश्वरायाः
स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ (किरातार्जुनीये ५-३३ )
 
इति भारविः । अत्र अश्नोतेराशुकर्मणि वरट् च (उणादि-७३५) इति सूत्रेण
वरट्-प्रत्यये उपधायाः ईत्वे च ईश्वर इति रूपम् । तस्य स्त्रियाम् टिड्ढाणञ्
(४-१-१५) इत्यादिसूत्रेण टित्त्वात् ङीपि ईश्वरीति रूपं स्यात्--इति
चेत्--
सत्यम् । नायं वरट्-प्रत्ययान्तः येनोक्तदोषः स्यात् । किं तु स्थेशभासेत्यादिसूत्रेण
(३-२-१७५) वरच्-प्रत्यये तस्य टित्त्वाभावात् न ङीप् । किं तु टाप् भवतीति न
दोषः ।
 
इति सर्व समञ्जसम् ।
(अन्ते एकस्मिन् [^239]तालपत्रपार्श्वे स्थिताः काश्चन पंक्तयः अत्यन्तमस्फुटाः
 
[^238]. See S.K. & T.B. on Uṇādi-647. These have the discussion.
 
[^239]. The MS C has the discussion on the topics in this order:
(1) subanta (-prakriyā)
(2) kṛdanta (-prakriyā)
(3) tiṅanta (-prakriyā), this has a section as padavyavasthā (N.185)
The portion dealing with kṛt - pratyayas is covered in MS. C from folio
19-a (end) to folio 26-b ( beginning). The discussion on tiṅ-pratyayas begins
on folio 27-a. Before this on folio 26-b of the MS. C alone there seem to have
been lines which could not be copied, and this fact seems to be indicated by
the scribe, who gives dot-like marks to show the gap. Other MSS. do not
have these lines. These were only a few even in the MS. C, as is clear. As